KAULBHASKAR Guru Ji is in Mumbai. Available on What's App

श्रीमद्-गुरु-कवचम् (ब्रह्म-यामले)

KAULBHASKAR GURU JI

2022-12-07

श्रीमद्-गुरु-कवचम् (ब्रह्म-यामले)

।। नारद उवाच।।

ब्रह्मन् ! गुरोर्मनु-स्तोत्रं यथावदवधारितम्। कवच-श्रवणे श्रद्धा साम्प्रतं कथ्यतां मम।।

।। ब्रह्मोवाच।।

श्रीगुरोः कवचं गुह्यं वर्ण्यमानं निबोध मे। नाभक्ताय प्रदातव्यं देयं भक्ति-मते सदा।।

विनियोगः- ॐ अस्य श्रीगुरु-कवचस्य श्री ब्रह्म ऋषिः अनुष्टुप छन्दः त्रिदेवात्मा अमुक-नाम-श्रीगुरुः देवता अमुक-नाम-श्रीगुरुदेव प्रीतये पाठे विनियोगः।

ऋष्यादिन्यासः- श्री ब्रह्म ऋषये नमः शिरसी। अनुष्टुप छन्दसे नमः मुखे। त्रिदेवात्मा अमुक-नाम-श्रीगुरुदेवाय नमः हृदि। अमुक-नाम-श्रीगुरुदेव प्रीतये पाठे विनियोगाय नमः सर्वाङ्गे।

।। कवच–स्तोत्रम्।।

ॐ शिरो मे सर्वदा पातु, गुरुः सर्वाङ्ग सुन्दरः। उद्यद्भाल-ललाटं मे, कृपा-दृष्टिर्दृशौ मम।।

मन्द-स्मितो मुखं पातु, श्रुती च मधुरं वचः। हृदयं पातु मन्त्रोक्तिर्वराभय-धरः करौ।।

गुरु-पद्मासनं पातु, नाभ्यादि-चरणान्तिकम्। गुरु-पाद-नख-ज्योत्सना, सर्वाङ्गं सर्वदाऽवतु।।

वाग्-बीजं मे सदा पातु, कामाद्यन्तांश्च खेचरी। आनन्द-भैरवः पातु, सदैवानन्द-मन्दिरम्।।

आनन्द-भैरवी पातु, ममानन्दं सदैव सा। हिंस्रेभ्यः सर्वदा पातु, श्रीप्रासाद-परो मनु।।

परा-प्रासाद-मन्त्रस्तु, पातु नित्यं विपद्-दशाम्। हंसः पीठं पातु चोर्ध्वं, सर्व-दिक्षु सदाऽवतु।।

कुलं तु गुरवः पान्तु, पात्वधः कमलासनः। ज्ञानं पातु च दिव्यौघा, इच्छां सिद्धौघ-संज्ञकः।।

मानवौघाः क्रियां पान्तु, श्रीगुरुः सर्वदाऽवतु।।

।। फल–श्रुति।।

ॐ इतीदं कवचं नित्यं, प्रातःकृत्यावसानके। यः पठेन् मानवो भक्तया, त्रैलोक्यविजयी भवेत्।।

मन्त्र-सिद्धिर्भवेत् तस्य, देवता च प्रसीदति। सत्यं सत्यं पुनः सत्यं, नात्र कार्या विचारणा।।

गुर्वभिधानं कवचमज्ञात्वा क्रियते जपः। वृथा श्रमो भवेत् तस्य, न सिद्धिर्मन्त्र-पूजने।।

गुरु-पादं पुरस्कृत्य, कवचं पठय्ते शुभम्। तदा मन्त्रस्य यन्त्रस्य, सिद्धिर्भवति नान्यथा।।

गुरु-गोप्यं च कर्तव्यं, न वक्तव्यं कदाचन। यस्मै कस्मै न दातव्यं, न प्रकाश्यं कदाचन।।

दातव्यं भक्ति-युक्ताय, कुलीनाय विशेषतः। त्रैलोक्य-दुर्लभं चैतद्, भुक्ति-मुक्ति-फल-प्रदम्।।

सर्व-तीर्थ-फलं येन, पठय्ते कवचं गुरौः। इति ते कथितं पुत्र ! सावधानोऽवधारय ।।