कुलागार ध्यान :
अतिसुललितगात्रां हास्यवक्त्रां त्रिनेत्रां,
जितजलदसुकान्तिम् पट्टवस्त्रप्रकाशां।
अभयवरकराढ्यां रत्नभूषातिभव्यां,
सुरतरुतलपीठे रत्नसिंहासनस्थां।।
हरिहरविधिवन्द्यां बुद्धिशुद्धिस्वरूपां,
मदनरससमाक्तां कामिनीं कामदात्रीं।
निखिलजनविलासोद्दामरूपां भवानीम्,
कलिकलुषनिहन्त्रीम् योनिरूपाम् भजामि।।